संस्कृतसप्ताहोत्सवःदिनत्रयस्य वृत्तान्तः
13/08/2025
Dh. Arts College, Sanskrit department
गुर्जरराज्य सर्वकारस्य आदेशानुसारं त्रिदिवसस्य संस्कृतसप्ताहः उत्सवः"अन्तर्गतं विविधाः प्रतियोगीता:अस्माकं धर्मेन्द्रसिंहजी विनयन महा विद्यालये आयोजिताः। प्रथमे दिने :- वलभीविद्यालयस्य प्रतिकृति संरचिता, छात्राणां अद्भूत संरचनां अस्ति इति उच्यते सर्वेभ्यः। अस्य मार्गदर्शकः प्रा.डॉ. जगत तेरैया महोदय:अस्ति। गुर्जरप्रदेशस्य गरबानृत्यं संस्कृत भाषायां प्रदर्शिताः अस्माकं धर्मेन्द्रसिंहजी विनयन महा विद्यालयस्य संस्कृत विभागस्य छात्रा द्वारा आयोजिताः। अस्य मार्गदर्शकः प्रा. डॉ. हंसा भगिनी अस्ति। द्वितीये दिने :- संस्कृतसप्ताहः उत्सवस्य द्वितीये दिने विविधाः प्रतियोगीतायाः आयोजनं कृतम् अस्ति। सर्वप्रथमं रंगकलाकृति एवं संस्कृत विभागस्य अध्यक्षा, डॉ. हितार्थी अग्रावत द्वारा प्रदत्तः विभागानुसारं ध्येयवाक्यम् । ध्यैयवाक्यः तु पुष्पाणि, पत्राणि द्वारा लेखनम्,इत्यस्य रंगकलाकृति अपि संरचना कर्तुं विद्यार्थिनः प्रेरिताः। अस्यां प्रतियोगीतायां सर्वे:विभागस्य विद्यार्थिनः अतीव उत्साहेन स्वकीयम् कला एवं कल्पना उद्घाटिताः। सर्वप्रथमं तु समग्रे अपि महाविद्यालयस्य ,प्राचार्खण्डस्य पार्श्वे,तथा सर्वे विषयानां प्रधानप्रकोष्ठस्य पार्श्वे रंगकलाकृति रचिताः। एवं तस्यां सह डॉ. हितार्थी अग्रावत द्वारा पूर्वमेव प्रदत्तः संस्कृत ध्येयवाक्यस्य पत्रपुष्पेभ्यः सुन्दरा पुष्पाकृतय:अपि रचिताः। अस्य स्थलस्य महाविद्यालयस्य एतादृशं अतीव सुन्दरम् रमणीयं मनोहरवातावरणं दृष्टवा डॉ. परेश रावल महाभागा, प्राचार्यः महोदयः ,अतीवानन्दः अनुभूय- "अहो अद्य अद्भूतं दृश्यम्, ,एकताया:,एतत् तु शुभारंभ:एतत्। " इति उच्यते। रंगकलाकृति निर्णायकाः- १.प्रा.डॉ. डोडीया किरणभगिनी (हिन्दीभाषा विभागतः) २.प्रा.डॉ. वाडोदरिया किरणभगिनी (इतिहास विभागतः) ३.प्रा.डॉ.ऋषिराज वाघेलामहोदयाः (आङ्लभाषा विभागतः) ... रंगकलाकृति स्पर्धायां सर्वप्रथमः स्थानं तु मनोविज्ञानस्य विद्यार्थिनः प्राप्तः।द्वितीयः स्थाने द्वौ विभागौ आगतः , अर्थशास्त्रविभागः च गुजराती विभागः च ।, अनन्तरं तृतीयः क्रमे संस्कृत विभागः च तत्त्वज्ञानविभागः आगतः। तेषां सर्वेषां छात्राणां कृते भूरिशः अभिनन्दननानि प्रदत्तानि प्राध्यापका:, प्राचार्यमहोदयै:। !!! द्वितीयः दिने आभारदर्शनं प्रा.डॉ.हंसाभगिनी अकरोत्। ** द्वितीयःदिने- अन्या प्रतियोगीताया: आयोजनं अपि कृतमस्ति। १.मंत्रोच्चारणम् २. श्लोकगायनम् ३.स्तोत्रगानम् ४.केवला प्रस्तुतिः "शिवमानस पूजा" शोधछात्रा- १.प्रजापति रीतलभगिनी, २.परमार विभुतिभगिनी.... एषां प्रतियोगितास्तु निर्मणायका:- १़ डॉ़शारदा वी राठौड संस्कृत विभागः,सौराष्ट़ विश्वविद्यालयतःएवं अस्माकम् महाविद्यालयस्य प्राध्यापिका डॉ़ महेश्वरी राविया महोदयाः अभवत।मन्त्रोच्चारणस्पर्धायां चत्वारः छात्रा:प्रतिभागी सन्ति। तेषां तु चावडागोर मित: प्रथमे स्थाने, सोलंकी पियूष:एवं च लालाणी रवि:संयुक्त रूपेण द्वितीयकम् स्थानम् प्राप्तवन्तौ, झालावाडिया केवल:तृतीये स्थाने उत्तीर्णः सन्ति। नूनम् सर्वेषां सभासदां कृते मंत्रोच्चारणम् आह्लादकरं अजायत। २.श्लोकगानम्-इत्येत् स्पर्धायां १६-षोड़शः विद्यार्थिनः प्रतिभागिनः सन्ति। तेषां तु परमार विजयः प्रथमम् स्थानं प्राप्तः।, द्वितीयक्रमे महेता तीर्थ: आगतः। तृतीयक्रम: सोलंकी पियूषः प्राप्तवान्। विविधाः श्लोकाः सन्ति, प्रत्येकं प्रतिभागिनः, अतः सर्वेषां श्रोताजनानां कृते कर्णामृतपानमिव संजातम्। ३.स्तोत्रगानम्-इत्येतत् स्पर्धायां षड् प्रतिभागिनः स्यात। तेषां तु जरिया दशरथः प्रथमः क्रम प्राप्तः। द्वितीयः क्रमः लालाणी राजः प्राप्तः। तृतीये स्थाने भालोडिया हिरवा उत्तीर्णा। सर्वेषां कृते अभिनंनदनानि प्रेषितवान् अस्माकं प्राचार्यः। यावत् कालपर्यन्तं निर्णायकाः निर्णयः कृतवन्तः तावत् कालपर्यन्तम् शोधछात्राद्वयं तु शिवमानस पूजायाः छन्दोबद्धः गायनमकरोत। अत्रान्तरे विभागस्य अध्यक्षा, प्रो. डॉ. हितार्थी अग्रावत द्वारा प्रासंगिकम्, प्रेरकम्प्रवचनम् प्रदत्तम्। **तृतीयः दिने - अस्मिन् दिने द्वौ व्याख्यानौ आयोजितः- प्रथमा वक्ता डॉ. नेहल वी जानी महोदया, सर्वकारी विनयन महा विद्यालयात्, जसदण जनपदात् आगताः अस्ति। श्रीमद्भगवद्गीतायाः कर्म विषये एकया प्रेरककथया द्वारा , स्वीया लाक्षणिकरीत्या व्याख्यानं प्रदत्तम् आसीत्, तत् सर्वेषां कृते बोधप्रद:अभवत्। अन्यत् च आसीत् उत्तम मारु महोदयस्य व्याख्यानं । तत् तु सर्वेषां कृते आश्चर्यकारी अभवत्। दिव्यांग अपि सः सर्वाणि शास्त्राणि एवं श्रीमद्भगवद्गीतायाः श्लोकाः मौखिकरूपेण प्रवदति। अनन्तरम् अपि यः कोऽपि श्लोकः छात्राः वदति तत्सः अध्यायः, श्लोकसङ्ख्या सहितः कथयति, तत्कालम् एव। ईदृशी संस्मरणशक्ति: धारकः उत्तमः अस्माकं संस्कृतविभागस्य एकं यशकलगीरुप: छात्र: सञ्जातः। अन्ततः सर्वे मिलित्वा अस्मिन् महाविद्यालयस्य अतीवप्राचीन ग्रन्थाणाम् पुस्तकप्रदर्शिनीम् प्रेक्ष्य , तथा वर्गखण्डसुशोभनम् दृष्ट्वा अल्पाहारम् कृत्वा कार्यक्रमस्य पूर्णाहुतिम् अकरोत्। तृतीयदिवसे आभारदर्शनम् प्रा.डॉ. जगत तेरैया महोदयेन अकरोत्। ।।शुभमस्तु।।




